“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम्
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्
ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्
संसारसागरे घोरे पोतरुपां वरां भजे
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः
|| शंकर उवाच ||
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके
हारिके विपदां राशेर्हर्षमङ्गलकारिके
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके
मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले
सतां मन्गलदे देवि सर्वेषां मन्गलालये
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम्
मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः
देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम्