श्री अच्युताष्टकम्

अच्युतं केशवं रामनारायणं
कृष्णदामोलदरं वासुदेवं हरिम्  ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ।।

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरम्
देवकीनन्दनं नन्दजं सन्दधे ।।

विष्णवे जिष्णवे शंखिने चक्रिने
रुक्मणीरागिणे जानकी जानये ।
वल्लवी वल्लभा यार्चितायात्मने
कंसविध्वंसिने वंशिने ते नम:।।

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज  
द्वारकानायक द्रौपदीरक्षक ।।

राक्षसक्षोभित: सीतया शोभितो  
दण्डकारण्यभूपुण्यताकारण: ।
लक्षमणेनान्वितो वानरै: सेवितो
अगस्त्यसम्पूजितो राघव:पातु माम् ।।

धेनुकारिष्टकानिष्टकृद्द्वेषिहा  
केशिहा कंसहृद्वंशिकावादक: ।
पूतनाकोपक: सूरजाखेलनो  
बालगोपालक: पातु मां सर्वदा ।।

विद्युदुद्योत वत्प्रस्फुर द्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोर:स्थलं  
लोहितांघ्रिद्वयं वारिजाक्षं  भजे ।।

कुन्चितै: कुन्तलैभ्रार्जमानाननं  
रत्नमौलिं लसत्कुण्डलं गण्डयो: ।
हारकेयूरकं कंकणप्रोज्जवलं
किंकिणीमंजुलं श्यामलं तं भजे ।।

अच्युतस्याष्टकं य: पठेदिष्टदं
 प्रेमत: प्रत्यहं पुरुष: सस्पृहम् ।
वृत्तत: सुन्दरं कर्तृविश्वम्भरम्
तस्य वश्यो हरिर्जायते सत्वरम् ।।
श्रेणी
download bhajan lyrics (372 downloads)