श्री गणेशाष्टकं

(अनन्तश्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य "श्री श्रीजी महाराज" द्वारा विरचित)

गणेशं सदा विघ्नबाधा कदम्ब-
प्रणाशे पटुं नित्यशान्तं गभीरम् ।
प्रसन्नम् सुपीनं हरेर्ध्यानमग्नं
महामोदकारं सुदेवं नमामि ।।

विशालं शुभं वक्रतुण्डं मनोज्ञम्
प्रवीणञ्च विज्ञानविद्याकलासु ।
असीमप्रभावं गुणज्ञानकोषं
प्रपूज्यं सदासर्वदेवेषु वन्दे ।।

दयासागर दिव्यधी--दानकक्षम्
सदा साधकेभ्यो मुदा मुक्तहस्तम् ।
शुभारम्भवन्द्यम् प्रियं कान्तिमन्तम्
गणेशं वरेशं सुरेशं नमामि ।।

दधानं करे मोदकं गौरवर्णम्
मणीनां महामालया शोभमानम् ।
उपस्यां जनै-र्भावुकै-र्भव्यरूपं
धिया सेव्यमानं गणेशं नमामि ।।

गणाधीश्वरं सद्गुणाढयं गणेशं
वरिष्ठं महाविघ्नहर्तारमीड्यं ।
विचित्राम्बरं भालचंन्द्रम् गजस्यां
सदा चेतसा चिन्तनीयञ्च वन्दे ।।

सुलम्बोदरं मूसकस्तं मतीशं
प्रसिद्धम् सतामृद्धिसिद्धिप्रसेव्यम् ।
नरिनृत्यमानं हरे: कीर्तने च
प्रसन्नाsननं श्रीगणेशं प्रणौमि ।।

सुदूर्वाड्कुरै रक्तपुष्पै: प्रसन्नम्
श्रुतीनां सुमन्त्रै: सदा सेव्यमानम् ।
समाराध्यमाप्तै र्गुणागाररूपं
गणेशं नुतं भूतयूथै र्नमामि ।।

अहो सुन्दरं शास्त्रसिद्धम् स्वरूपं
महादेवदेवं शरण्यं वरेण्यम् ।
अचिन्त्यम् सुधिवृन्दसेव्यं सुधापं
सदानन्दपूर्णम् गणेशं प्रणौमि ।।

श्रीगणेशाष्टकम् स्तोत्रमृद्धिसिद्धिप्रदायकम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ।।
श्रेणी
download bhajan lyrics (321 downloads)