गुरु स्तोत्रम

गुरु स्त्रोत

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥१॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरून्मीलितं येन तस्मै श्री गुरवे नमः ॥२॥

अखण्डानन्द बोधाय विश्वसंन्ताप हारिणे।
सच्चिदानन्द रूपाय तस्मै श्री गुरुवे नमः ।॥३॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥४॥

सत्यव्रतं सत्य परं त्रिसत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्य मृत सत्य नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्ना ।। ५ ।।

नमस्ते सते ते जगत्कारणाय
नमस्ते चिते सर्व लोकाश्रयाय।
नमो ऽद्वैत तत्त्वाय मुक्तिप्रदाय
नमो ब्रह्मणे व्यापिने शाश्वताय ।। ६ ।।

त्वमेकं शरण्यं त्वमेकं वरेण्यं
त्वमेकं जगत्पालकं स्वप्रकाशम् ।
त्वमेकं जगत्कर्तृ पातृ प्रहर्तृ
त्वमेकं परं निश्चलं निर्विकल्पम् ।।७।।

भयानां भयं भीषण भीषणानां
गतिः प्राणिनां पावनं पावनानाम्
महोच्चैः पदानां नियन्तृ त्वमेकं
परेषां परं रक्षण रक्षणानाम् ।।८।।

वयं त्वां स्मरामो वयं त्वां भजामो
वयं त्वां जगत्साक्षिरूपं नमामः
सदेकं निधानं निरालम्ब मीशं
भवाम्भोधि पोतं शरण्यं व्रजामः ।।९।।

निर्मानमोहा जितसंग दोषा
अध्यात्मनित्या विनिवृत्तकामाः
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै
र्गच्छन्त्यमूढाः पदमव्यं तत् ।।१०।।
download bhajan lyrics (79 downloads)